Centre for Sanskrit, spirituality and healing

एषा लघु कथा श्रेयायाः जीवने घटिता कथा, यदा सा षष्ठम्यां कक्षायां पठन्ती आसीत् तदा घटिता। इदानीं सा द्वादश्यां कक्षायां पठन्ती अस्ति। मम समीपे संस्कृतपाठार्थम् आगच्छति। यदा श्रेया षष्ठम्यां कक्षायां आसीत् तदा मंगलूरु नगरे एकस्मिन् विद्यालये पठन्ती आसीत्। संस्कृतदिनस्य आगम

नसमयः आसीत् (श्रावणमासस्य पौर्णमसि एव संस्कृतदिनम्)। अतः तस्याः शिक्षकः छात्राणाम् एकगणाय संस्कृतभाषायाः प्रसिद्धवाक्यानां, यथा ’सत्यं वद’, ’

धर्मं चर’, ’मातृदेवो भव’, ’पितृदेवो भव’ इत्यादीनां भित्तिपत्रानि कर्तुम् उक्तवान् आसीत्। सः छात्रगणः शीघ्रं भित्तिपत्राणि कृत्वा शिक्षकस्य समीपम् आनीतवान्। श्रेया अपि सुन्दरं भित्तिपत्रं कृत्वा तस्मिन् ’सत्यं वध’ इति लिखितवती आसीत्। तस्याः भित्तिपत्रं दृष्ट्वा शिक्षकाय किञ्चित् आघातः जातः। सः श्रेयाम् अवदत् ’सत्यं वद’ इत्युक्ते सत्यवचनम् एव वक्तव्यम् इति अर्थः। परन्तु ’सत्यं वध’ इत्युक्ते सत्यं मारय इति अर्थः भवति इति। तदा श्रेया ज्ञातवती यत् संस्कृते अल्पप्राणाः महाप्राणाः च प्रमुखं पात्रं वहन्ति, तेषु किञ्चित् व्यत्ययः भवति चेत् अर्थे प्रबलतया व्यत्ययः भवति इति। श्रेयायाः एतम् अनुभवं शृत्वा अहं हसितवती।
एतं स्वानुभवं मह्यम् उक्तवत्यै श्रेयायै मम धन्यवादाः।