A Centre for Sanskrit and Spirituality

२०१८ तमे वर्षे नवेम्बर् मासे अहं मम आन्लैन् संस्कृतकाक्षायाः आरम्भं कृतवती। ये ये मम प्रथमे गणे मयि विश्वासं स्थापयित्वा आगतवन्तः तेभ्यः अहं सर्वदा कृतज्ञा अस्मि। अस्मिन् अत्युत्तमे गणे अति उत्तमाः विविधवयस्काः जनाः आसन्। अस्मिन् गणे शोभा वर्तमान् अपि आसीत्। सा किञ्चित् विलम्बेन आगतवती परन्तु बहु सम्यक् संस्कृतभाषां शिक्षितवती। सा अतीव श्रद्धया पठति, गृहपाठं सम्यक् करोति, सम्यक् समये कक्षाम् आगच्छति च। यदि सा कक्षाम् आगन्तुं न शक्नोति तर्हि सा पूर्वम् एव मह्यम् एकं सन्देशं प्रेषयति। फ़ेब्रवरी मासस्य २७ तमे दिनाङ्के अहं सामन्यतया कक्षां स्वीकुर्वती आसम्। तस्मिन् दिने शोभा महोदया कक्षायां नासीत्। सा मह्यं सन्देशम् अपि न प्रेषितवती आसीत्। अहं तु कक्षाम् यथापूर्वं कुर्वती आसम्। २० निमेषानन्तरं शोभा महोदया कक्षां प्रविश्य किमपि वक्तुकामा हस्तम् उद्धृत्य अवदत् ” शुभा, अद्य अहं कक्षायां भागम् वोढुं न शक्नोमि, यतः मम पुत्रः वार्तायाम् आगच्छन् अस्ति। ’विन्ग् कमान्डर् अभिनन्दनः’ यः पाकिस्तान् देशे अपतत् सः मम पुत्रः” इति। शोभायाः वचनं श्रुत्वा मह्यं रोमाञ्चनम् अभवत्। कक्षायां सर्वेभ्यः एषः अनुभवः अभवत् इति अहं निश्चयेन जानामि। कक्षायां सर्वे शोभा महोदयाम् प्रति उक्तवन्तः यत् तस्याः पुत्रः निश्चयेन सुरक्षितः भारतं प्रत्यागच्छति, वयं सर्वे तदर्थं प्रार्थयामः इति। एतत् उक्त्वा शोभा महोदया कक्षायाः निष्क्रान्तवती। अहम् एकं विषयं बहु सम्यक् लक्षितवती यत् शोभा महोदया अतीव शान्ता आसीत्।

अनन्तरं यदा तस्याः पुत्रः भारतं प्रत्यागतवान् तदा सा देहलीं गतवती तं द्रष्टुम्। यदा सा चेन्नै नगरम् प्रत्यागतवती तदा सा यथा पूर्वं कक्षाम् आगन्तुम् आरब्धवती। कक्षायाः अनन्तरम् अहं तया सह एतस्य संभवस्य विषये चर्चां करोमि स्म। अहं तां बहु प्रश्नान् पृच्छामि स्म, सा अपि मह्यं कतिचन विषयान् वदति स्म। तया उक्तेषु विषयेषु एतं विषयं, यत् अहम् इदानीम् अत्र वदामि, श्रुत्वा सैनिकेभ्यः मयि यत् गौरवम् आसीत् तत् अत्यधिकम् अभवत्। सा घटना एवम् अस्ति। कोऽपि एकः शोभा महोदयायाः, तस्या पत्युः च समीपम् आगत्य अवदत् यत् सः केन्द्रसर्वकारस्य अति प्रमुखान् नायकान् सम्यक् जानाति इति। अतः सः वर्तमान्-दम्पतये “तान् नायकान् मिलित्वा युवयोः पुत्रम् शीघ्रं भारतं प्रत्यानेतुं आग्रहं कुरुतम्” इत्यवदत्। एतदर्थं अभिनन्दनस्य पिता निवृत्तः ’एर् मार्शल्’ श्री सिंहकुट्टि वर्तमान् महोदयः अवदत् ” मम कृते प्रथमं देशः अनन्तरं पुत्रः। सर्वकारः तु यत् करणीयं तत् कुर्वन् एव अस्ति। अहम् आग्रहम् न करोमि” इति। एतत् श्रुत्वा अहम् अस्माकं देशस्य सैनिकानां मनोभावः, देशं प्रति तेषां समर्पणाभावः च कीदृशः भवति इति ज्ञातवती। वर्तमान्-दम्पतिः कस्याम् अपि वाहिन्यां अथवा पत्रिकायां सन्दर्शनं न अयच्छत्। किमपि प्रचारम् अपि न अकरोत्।

मम शालायाः मुख्यस्थैः सह अस्मिन् विषये चर्चां कृत्वा अहं शोभा महोदयां, तस्या पतिं सिंहकुट्टि महोदयं च मम विद्यालयम् आगत्य बालान्, तेषां पितॄन् च उद्दिश्य वक्तुं निवेदनं कृतवती। तौ अङ्गीकृतवन्तौ। शोभा महोदया मह्यम् पूर्वम् एव अवदत्, मम विद्यालयजनेभ्यः वक्तुम् यत् तस्यै पारितोशकं वा राङ्कवं वा न दातव्यम् इति। परन्तु बालैः कृताम् हस्तकलां सा सन्तोषेण स्वीकरोति इति। एकस्मिन् शनिवासरे वर्तमान्-दम्पतिः ’अक्षर् सेन्टर् आफ़् एडुकेशन्’ आगत्य बालान्, तेषां पितॄन् च उद्दिश्य अवदत्। सिंहकुट्टि वर्तमान् महोदयः बालान् उद्दिश्य बहु सम्यक् अवदत्। तस्य भाषणं संवादात्मकम् आसीत्। सः अतीव सरलया भाषया बालेभ्यः भारतीयसेनायाः उद्देश्यस्य विषये अवदत्। बालाः तस्य भाषणं बहु इष्टवन्तः। शोभा महोदया एका वैद्या अपि च ‘Doctors without borders’ इति एकस्याः संस्थायाः सदस्याअपि आसीत्। तस्याः संस्थायाः द्वारा सा युद्धात् पीडितानि स्थलानि गत्वा तत्र वैद्यकीयां सेवां कृतवती अस्ति। सा बालानां पितॄन् उद्दिश्य अवदत्। ’अक्षर्’ विद्यालयः एकः ’वाल्डार्फ़्’ विद्यालयः। अतः तदा तदा बालानां पितॄणां मनसि अस्य शिक्षणपद्धतेः विषये सन्देहः उद्भवति। तेषां बन्धुमित्रगणेषु बालाः साधारणविद्यालयेषु पठन्ति। तैः सह यदा चर्चां कुर्वन्ति तदा पितॄणां मनसि तेषां निर्धारस्य विषये बहु सन्देहाः उद्भवन्ति। परन्तु शोभा महिदयायाः भाषणं श्रुत्वा तेषां निर्धारस्य विषये तेषु बहु आत्मविश्वासः आगतः।

पुनः अस्मिन् वर्षे आगस्ट् मासस्य १३ तमे दिनाङ्के, स्वतन्त्रतादिवसस्य आचरणनिमित्तं मम विद्यालयः वर्तमान्-दम्पतिं बालान् उद्दिश्य वक्तुं निमन्त्रितवान्। कोविड्-१९ कारणात् एषा सभा ’आन्लैन्’ मध्ये आसीत्। अतः यद्यपि अहम् नेदेर्लाण्ड्स् देशे अस्मि तथापि अहमपि अस्यां सभायां भागं वोढुं शक्तवती। पुनः वर्तमान्-दम्पतिः अस्मान् बहु प्रेरितवान्। श्री सिंहकुट्टि वर्तमान् महोदयः बालान् उद्दिश्य बहु सम्यक् उक्तवान्। सः भारतस्य स्वतन्त्रतायाः विषये, स्वतन्त्रतायाः अनन्तरं भारतस्य स्थितेः विषये, श्री लाल् बहाद्दूर् शास्त्री महोदयस्य ’ग्रीन् रेवल्यूशन्’ विषये च उक्तवान्। बालाः वर्तमान् महोदयं भारतीय-वायुसेनायाः विषये बहु प्रश्नान् पृष्टवन्तः। तेभ्यः प्रश्नेभ्यः उत्तरं यच्छन् वर्तमान्-वर्यः भारतस्य रष्ट्रपतिना तस्मै दत्तं पदकम् दर्शितवान्। अनन्तरं सः वायुसेनायां स्थितानां स्थानकानां विषये अवदत्। तदा अहं ज्ञातवती यत् ’एर् मार्शल्’ पदव्याः उपरि एका एव पदवी वर्तते ’चीफ़् ऐर् मर्शल्’ इति। बालैः सह अहमपि तस्य भाषणं श्रुत्वा आनन्दम् अनुभूतवती।

अनन्तरं शोभा महोदया अस्माकं जीवनस्य तिसॄणां मातॄणां विषये उक्तवती- जन्मदात्री माता, मातृभाषा, मातृभूमिः च। सा बालैः सह एताः मातरः अस्मभ्यं किं किं दत्तवत्यः, अस्माभिः ताभ्यः मातृभ्यः किं कर्तुं शक्यते इति विषये चर्चां कृतवती। तस्याः भाषणम् अतीव सम्यक् आसीत्। माम् एतस्यां दिशायां चिन्तयितुं प्रेरणम् अयच्छत् तस्याः भाषणम्। सा एकस्य आचरणस्य विषये उक्तवती यस्य अभ्यासम् अहमपि करिष्यामि। सा बालान् अवदत् प्रतिदिनं भोजनात् पूर्वम् एतेभ्यः त्रिभ्यः धन्यवादान् वदन्तु “भूमात्रे धन्यवादाः, कृषकेभ्यः धन्यवादाः, पकं कृतवत्यै मात्रे धन्यवादाः” इति। मातृभाषायै वयं कथं कृतज्ञतां समर्पयितुं शक्नुमः इति वषये शोभा महोदया बालान् अवदत्, सम्यक् मातृभाषया संभाषणं करणीयं, मातृभाषायां पठनीयं लेखनीयं च इति। अत्र सा एकं प्रमुखं विषयम् उक्तवती यत् मातृभाषया सह संस्कृतिः अपि आगच्छति इति। अनन्तरं सा अवदत् मातृभूमेः सेवां कर्तुं भारतीयसेनायां एव कार्यं करणीयम् इति नास्ति। भवन्तः यत्र कुत्रापि भवन्तु (भारते वा विदेशे वा), भवतां कार्यं श्रद्धया कुर्वन्तु, कार्ये निपुणाः भवन्तु इति। एतेन मातृभूमेः गौरवं वर्धते। सा स्वस्याः अनुभवम् उक्तवती यत् १९७४ तमे वर्षे यदा सा ’लण्ड्न्’ गतवती उच्चशिक्षणार्थं तदा विदेशीयाः भारतीयान् कथं पश्यन्ति स्म, इदानीं विदेशीयाः भारतीयान् कथं पश्यन्ति, इत्येतयोः महान् अन्तरः वर्तते इति। कारणं विविधक्षेत्रेषु भारतीयैः कृतानि साधनानि।

शोभा महोदयायाः परिचयं, मम कक्षायां तस्याः उपस्थितिं च प्राप्य अहम् अतीव सन्तुष्टा। अस्मिन् स्वतन्त्रतादिवसे अहं सर्वेभ्यः सैनिकेभ्यः कृतज्ञतां समर्पयामि, अपि च ये ये स्वक्षेत्रेषु अत्युत्तमम् कार्यं कृत्वा भारतस्य गौरवं वर्धयन्ति तेभ्यः अपि मम कृतज्ञतां समर्पयामि। जयतु भारतम्!

For the English version of this article check this link https://www.tattvam.org/patriotism/