A Centre for Sanskrit and Spirituality

तिस्रः द्वादशकक्षायाः छात्राः, नेत्रा, श्रेया, हसीना च मम समीपे संस्कृतस्य पाठार्थम् आगच्छन्ति स्म। अहं ताभ्यः पाठयितुं बहु इच्छामि स्म यतः ताः कक्षां बहु उत्साहयुतां हास्यभरितां च कुर्वन्ति स्म। ताभिः मम गृहस्य द्वारघण्टिकायाः वादनात् पूर्वमेव अहं तासाम् आगमनं जानामि स्म, यतः तासां हासस्य शब्दः दूरात् एव श्रूयते स्म। ताः दृष्ट्वा अहं ज्ञातवती यत् मम ज्ञानेन विना लघु विषायाणां कृते अपि हसनस्य गुणः मयि नष्टः अभवत् इति। एषा प्रौढावस्था तया सह आगतैः दायित्वैः क्लेषैः च मां अतीव गम्भीराम् अकरोत्। दैववशात् एताः युवत्यः आगत्य मयि पुनः हासस्य कणं प्रज्यालितवत्यः।
यदा अहम् एतत् ज्ञातवती तदा आरभ्य अहमपि एताभिः बालिकाभिः सह मिलित्वा सम्यक् हसामि स्म। एषः हासः माम् ऊर्जयति स्म। अत्र अहं तासां काश्चन हास्यकणिकाः याः अहम् इदानीं स्मरामि ताः लिखामि। एताः हास्यकणिकाः मन्दाः स्युः तथापि वयं बहु हसितवत्यः।

हसीना बहु प्रश्नान् पृच्छति स्म यथा ” किमर्थं केषुचित् स्थलेषु णकारः आगच्छति यथा ’रामेण’, अपि च किमर्थम् केषुचित् स्थलेषु नकारः आगच्छति यथा ’फलेन’ ?” इति। मम उत्तरदानात् पूर्वमेव नेत्रा वदति स्म “अरे! तत् सर्वम् पाणिनीयम्। वयं तत् सर्वं न अवगच्छामः” इति । अनन्तरं सर्वाः हसन्ति स्म। मम ज्ञानोदस्य अनन्तरम् अहमपि ताभिः सह मिलित्वा हसामि स्म।

एकस्मिन् दिने अहं ताभ्यः जश्त्व सन्धिं पाठयन्ती आसम्। तदा उदाहरणार्थम् अहम् ’वागीशः’ इति पदं स्वीकृत्य तस्य सन्धिविच्छेदम् एवं कृतवती ’वाक् + ईशः’ इति। ताः मां पृष्टवत्यः “वाक् इत्युक्ते किम्?” इति। अहं “वाक् इत्युक्ते speech” इत्यवदम्। ताः ’ईशः’ इति शब्दस्य अर्थं ज्ञातवत्यः आसन्। अतः ताः पुनः माम् अपृच्छन् “तर्हि वागीशः इत्युक्ते ’Lord of speech’ इत्यर्थः वा?” इति। अहम् आम् इत्यवदम्। मम वचनस्य समनन्तरं ताः हसितुम् आरब्धवत्यः। तासां हासस्य कारणं ज्ञातुं मम कुतूहलः आसीत् अतः अहं ताः कारणम् अपृच्छम्। तदा एका अवदत् ” अस्माकं विद्यालये वागीशः इति बालकः अस्ति। सः बहु वदति। तस्य एतस्य गुणस्य कारणम् वयम् इदानीं ज्ञातवत्यः” इति।

श्रेया मह्यं ’Whatsapp’ मध्ये बहु ’forwards’ प्रेषयति स्म यथा संस्कृते स्पानिश् गीतं ’पसितो पसितो’ , संस्कृते ’शेप् आफ़् यु’ गीतम् इत्यादि। अपि च कतिचन हास्यकराणि ’videos’ प्रेषयति स्म। एताः बालिकाः मां मम किशोरावस्थां नीतवत्यः।

श्रेया संस्कृते सम्भाषणं कर्तुम् बहु इच्छति स्म अतः अहं तां मम ’आन्लैन्’ कक्षायां यदा केवलं सम्भाषणस्य अभ्यासः भवति तदा आह्वयामि स्म। यदा सा कक्षायां भवति तदा तत्रत्य वातावरणम् एव विभिन्नं भवति स्म। कक्षायां बहु हासः ऊर्जा च भवति स्म। इदानीम् अपि मम ’आन्लैन्’ छात्राः यदा श्रेयां स्मरन्ति तदा तेषां मुखेषु एकः विस्तीर्णः हासः भवति।

यद्यपि एताः बालिकाः बहु परिहासं कृत्वा हसन्ति स्म तथापि ते अतीव श्रद्धया पठन्ति स्म। अहम् यत् अपाठयम् तस्य अभ्यासम् अकुर्वन्। “कृपया गृहकार्यं ददातु, परीक्षां करोतु” इति मां पृच्छन्ति स्म। तासां पाठने अहं बहु आनन्दम् अनुभूतवती। ताभ्यः शुभं भूयात् ।

अहं चिन्तयन्ती अस्मि यत् मया युवकैः सह समयं यापयितुं मार्गः अन्वेष्टव्यः इति। तेषु बहु उत्साहः भवति परन्तु तेभ्यः अधिकानि दायित्वानि न सन्ति। अतः तेषां मनस्सु बहु ऊर्जा भवति। युवकैः सह समययापनेन मयि स्थितेन किशोरत्त्वेन सह सम्पर्कं स्थापयितुं शक्नूमि।