2020 वर्षं कोऽपि न विस्मरति यतः एतत् वर्षं सर्वेभ्यः किञ्चित् कष्टकरम् आसीत् | तथापि निश्चयेन सर्वेभ्यः अस्मिन् वर्षे किमपि उत्तमम् अपि अभवत् स्यात्| मयि स्थितायै शिक्षिकायै अस्मिन् वर्षे किम् उत्तमम् अभवत् इति अहम् अत्र लिखामि |

अहं Akshar Centre for Education इति चेनैनगरे स्थिते विद्यालये बहु वर्षाणि कार्यं कृतवती| अनन्तरं मया नेदर्लाण्ड् देशः गन्तव्यः अभवत् इति कारणात् अहं विद्यालयं तयक्तवती| वाल्डार्फ़् विद्यालये पाठनम् अहं बहु इष्टवती| अक्षर् विद्यालयस्य छात्रैः सह मम विशेषः बन्धः आसीत् यतः अहं तैः सह आदिनं सप्ताहे 5 दिनानि यावत् समयं यापयामि स्म| पठनकार्येण सह वयं मिलित्वा नृत्यं कृतवन्तः, गीतवन्तः, प्रवासार्थं गतवन्तः, नाटकानि कृतवन्तः, प्रकृतौ भ्रमणाय गतवन्तः, समुद्रतीरे क्रीडितवन्तः, इतोऽपि बहु मोदनकार्याणि कृतवन्तः| अस्मासु किञ्चित् वैमनस्यम् अपि जातम् | आम्, अहम् एकस्मै नूतनतया आगताय बालकाय पक्षपातं कुर्वती अस्मि इति बालाः चिन्तितवन्तः (अस्मभ्यम् ज्येष्ठेभ्यः एषः लघु विषयः, परन्तु बालेभ्यः एषः अतीव कठिणः विषयः )| तस्मै बालकाय संस्कृतं नूतनं आसीत् | अतः तम् अन्यबालकानां स्तरम् आनेतुं मया तस्मै अधिकम् अवधानं दत्तम् | तत् कारणात् पक्षपातम् इति एका महती समस्या उद्भूता| अन्ते वयं एतत् वैमनस्यं परिहृतवन्तः, बालकाः मम उद्देश्यम् अवगतवन्तः | एतादृश्यः समस्याः अस्माकं सम्बन्धम् इतोऽपि दृढं कृतवत्यः| बहु दुःखेन अहं अक्षर् विद्यालयं तयक्तवती| तथापि अहं बालानां संपर्के आसम् | अहं तेभ्यः नेदर्लाण्ड् देशात् संस्कृतभाषायां पत्राणि लिखितवती| हुम्… बहु पत्राणि लेखनीयानि अभवन् (बालैः पाठितं निश्पाक्षपातस्य पाठं अहं कदापि न विस्मरामि ह ह ह !), तथापि अहं सन्तोषेण लिखितवती| 2020 तमे वर्षे कोरोना-महामार्याः कारणात् शिक्षणं सर्वं ‘आन्लयिन्’ माध्यमेन एव करणीयम् अभवत् | मम विद्यालस्य प्रबन्धकाः मह्यं संदेशं प्रेषितवन्तः यत् “भवती पुनः अस्माकं विद्यालये संस्कृतं पाठयितुं शक्नोति वा?” इति | एतं संदेशं यदा अहं पठितवती तदा अहं बहु आनन्दम् अनुभूतवती| किमपि अचिन्तयित्वा अहं पुनः अक्षर् विद्यालये कार्यं कर्तुम् अङ्गीकृतवती | यदा अहं पुनः बालान् मिलितवती तदा मम आनन्दाय पारः एव नासीत् | इदानीम् अहम् अक्षर् बालेभ्यः संस्कृतपाठं पाठयन्ती अत्यानन्दितास्मि |

मयि स्थितायै शिक्षिकायै अपरः उत्तमः विषयः अपि अभवत्| मम ‘आन्लयिन् कक्षायाः छात्रायाः प्रज्ञायाः सखी अमेरिकादेशे एकम् औषधोत्पादनस्य व्यापारं करोति | सा समाजाय किमपि उत्तमं कर्तुं इष्ट्वा, बिहार्-राज्यस्य पोख्राम नाम एकस्मिन् कुग्रामे एकं विद्यालयम् आरब्धवती| विद्यालयस्य नाम “Pokhrama Foundation Academy” | तत्र सप्तमकक्षायाः बालेभ्यः संस्कृतं पाठनीयम् इति संस्थापकानाम् इच्छा | मम छात्रा प्रज्ञा तस्याः सख्यै मम विषये उक्त्वा, तस्याः सखी मह्यम् एतेभ्यः ग्रामबालेभ्यः संस्कृतपाठं पाठयितुम् अवकाशं दत्तवती| ग्रामबालेभ्यः पाठनीयम् इति सर्वदा मम इच्छा आसीत्| परन्तु तत् कथमित्यहं न ज्ञातवती | देवः मम इच्छां ज्ञात्वा एतं सदवकाशं दत्तवान्| एतेभ्यः ग्रामबालेभ्यः पाठने मम अतीव आनन्दः वर्तते| ते संस्कृतभाषायाः शिक्षणे बहु आसक्तिं प्रदर्शयन्ति, यतः तेभ्यः शिक्षणम् एकः वरः, मूलभूतावष्यकता न | एकस्यै शिक्षिकायै छात्राणाम् आसक्तिः एव इन्धनम्, यत् तस्यै इतोऽपि पाठयितुं शक्तिं ददाति| एते छात्राः मह्यं तत् इन्धनं यच्छन्ति|

बालेभ्यः उत्तमस्तरस्य शिक्षणं दत्वा “Pokhrama Foundation Academy” अत्युत्तमं कार्यं करोति| अहं ज्ञातवती यत् तत्रत्य बहवः शिक्षकाः तस्मिन् कुग्रामे एव उषित्वा बालेभ्यः पाठयन्ति इति | एते शिक्षकाः यद्यपि नगरस्थाः तथापि ग्राम बालेभ्यः पाठयितुं कुग्रामे वस्तुम् अपि सिद्धाः| तेषु स्थितायै पाठनेच्छायै मम नमस्काराः | अहम् अस्य विषये पुनः कदापि लिखामि |

यद्यपि एषा महामारी सर्वेभ्यः कष्टम् अयच्छत् तथापि सर्वेभ्यः किमपि उत्तमम् अपि अकरोत् | मम बहवः छात्राः माम् उक्तवन्तः यत् एतस्याः महामर्याः कारणात् गृहात् कार्यं कर्तुं अवसरः प्राप्तः, कुटुम्बेन सह कालयापनं कर्तुम् अवसरः प्राप्तः इत्यादि | अहं मत्कृते किम् उत्तमम् अभवत् कोरोनाकारणात् इति भवद्भ्यः उक्तवती | सर्वेभ्यः एतत् नूतनवर्षं सन्तोषदायकं भवतु, अर्थपूर्णं च भवतु इति देवे मम प्रार्थना |

अत्र एकं संस्कृतभाषायां नूतनवर्षस्य गीतं स्थापयामि यत् अहम् अक्षर् बालेभ्यः बहु वर्षेभ्यः पाठयन्ती अस्मि | एतत् गीतम् अहं विद्यालयस्य ग्रन्थालये एकस्मिन् पुस्तके प्राप्तवती आसम् | तत् पुस्तकम् अरविन्दाश्रमेण प्रकाशितम् इति स्मरामि | परन्तु पुस्तकस्य नाम न स्मरामि |
गीतम् –
शुभनववर्षं वितरतु हर्षम् |
जनयतु ननु नः परमोत्कर्षम् ||

गच्छत्वन्धकारः नित्यम् |
राजतु चिरनूतनप्रभातम् ||

न हि गणयित्वा विगतं वर्षम् |
सदा प्रयामः पुरः प्रहर्षम् ||

For the English version of this article click this link https://www.tattvam.org/my-2020/

WhatsApp
+918660795789