Free hand holding pen Images, Pictures, and Royalty-Free Stock ...आर्यः इति एकः बहु चेष्टालुः परन्तु अति बुद्धिमान् द्वादशवर्षीयः बालकः मम समीपे संस्कृतस्य पाठार्थम् आगच्छति स्म। सः अतीव चेष्टालुः अतः पाठार्थं तस्य उपवेशनम् एकं महत् कार्यम् आसीत्। तथापि एकवारम् अपि अहं तं न निन्दितवती, न भायितवती च। अहं तेन सह उत्तमं सख्यं वर्धितवती अतः सः मम वचनं शृणोति स्म। एताः उत्तमाः पद्धतीः अहं मम वाल्डार्फ़् विद्यालये शिक्षितवती। अक्षर् विद्यालये शिक्षिकाभ्यः एवम् एव प्रशिक्षणम् दीयते। भयस्य प्रयोगेण विना प्रीत्या छात्राणां नियन्त्रणं कथं करणीयम् इति विषये वयं प्रशिक्षिताः।

एकस्मिन् दिने आर्यः तस्य संस्कृतस्य उत्तरपत्रिकां प्राप्तवान्। तस्यां पत्रिकायाम् उत्तमान् अङ्कान् अपि प्राप्तवान् आसीत्। अतः सः “मत्कृते एकम् उपायनं दापयतु” इति माम् पृच्छति स्म। यदा सः माम् एवं पृच्छति स्म तदा अहं कदापि साक्षात् “न, अहं न दापयामि” इति न वदामि स्म। तत्स्थाने अहं तस्य वचनं सम्पूर्णं श्रुत्वा अनन्तरं तेन सह उक्त्वा तम् अवगमयामि स्म। सः अपि अवगच्छति स्म। अन्सिला भगिन्यै मम धन्यवादाः यतः सा एव मह्यम् एतादृशं प्रशिक्षणं दत्तवती अक्षर् विद्यालये।
यस्मिन् दिने आर्यः तस्य संस्कृतस्य उत्तरपत्रिकां प्राप्तपान् तस्मिन् दिने एषः हास्यकरः संवादः आवयोः मध्ये अभवत्। सः amazon.com मध्ये एकां अति मूल्ययुतां लेखनीं दृष्ट्वा तां लेखनीं मह्यं दापयतु इति मां वदति स्म।

अहम् – आर्य! एषा लेखनी अतीव मूल्ययुता अस्ति।
आर्यः – अहं भवत्याः कृते कियत् उपकारं कृतवान् अस्मि। भवती मम कृते एतां लेखनीं दापयितुं न शक्नोति वा?
अहम् (आश्चर्यचकिता) – त्वं मम कृते किं उपकारं कृतवान्?
आर्यः – अहं भवत्याः कृते एव संस्कृतं पठितवान्।
अहम् – तर्हि तव संस्कृतपठनं माम् उपकर्तुं वा?

एषः संवादः मां चिन्तयितुं प्रचोदितवान्, इदानीम् अपि चिन्तयितुं प्रचोदयति यत् ” बालानाम् इच्छायाः विरिद्धं तेभ्यः पाठान् पाठयित्वा वयं तेभ्यः उपकारं कुर्वन्तः स्मः वा ? उत ते तादृशान् पाठान् कष्टेन पठित्वा अस्मभ्यं उपकारं कुर्वन्ति वा? इति। अहं तु एतावत् पर्यन्तम् अस्य प्रश्नस्य उत्तरं न प्राप्तवती।

WhatsApp
+918660795789