वाल्डार्फ़् विद्यालये सर्वं मौनसमयात् एव आरभ्यते, तत् जन्मदिनाचरणं वा भवतु, कथासमयः वा भवतु अथवा शिक्षिकाणां सम्मेलनं वा भवतु।
विद्यालयः ९ वादने आरभ्यते। परन्तु शिक्षिकाभिः तत्र ८:५० वादने भवितव्यम्। १० निमेषेभ्यः पूर्वं किमर्थम् इत्युक्ते तस्मिन् समये शिक्षिकाभ्यः मौनसमयः भवति। ८:५० वादने वयं सर्वे मिलित्वा वृत्ताकारे उपविश्य नेत्रम् निमील्य मौनसमयं कुर्मः स्म। अहम् इदानीम् अपि अस्मिन् विद्यालये मम प्रथमं मौनसमयं बहु सम्यक् स्मरामि। यदा अहं तस्मिन् वृत्ताकारे स्थित्वा मम नेत्रे निमीलितवती तदा अहं बहु स्पष्टतया मम सद्गुरुं श्री श्रीधरस्वामिनं दृष्टवती तेषां सान्निध्यस्य अनुभवः अपि स्पष्टतया अभवत्। मम कृते एषः अनुभवः ’तव निर्णयः समीचीनः अस्ति’ इति मम गुरुः मां वदन् अस्ति इति सूचना। सः निर्णयः यथा अपेक्षितं तथा अतीव उत्तमः निर्णयः आसीत्।
प्रतिदिनं मौनसमयानन्तरं सर्वाः शिक्षिकाः मिलित्वा एतं पद्यं वदामः। पद्यम् एवम् अस्ति।

“We have the will to work,

that into this our work may flow,

that which from out of the spiritual worlds

working in soul and spirit, in life and body,

strives to become the human being within us.”

“Do not judge, but listen,

do not wonder, but look.

Love them all.”

एकस्मिन् शनिवासरे, शिक्षिकाणां सभायां, अस्माकं विद्यालयस्य संस्थापकः श्री पुष्पराज् महोदयः अस्मान् अपृच्छत् ” किमर्थम् अस्माकं विद्यालये प्रतिदिनं मौनसमयः भवति?”
अस्माभिः उत्तरं दत्तं यत् ” मनः शान्तं कर्तुम्” इति। पुष्पराज् महोदयः अवदत् “तत् समीचीनम्”। परन्तु सः अन्यं अत्युत्तमम् दृष्टिकोनम् अददात्। सः अवदत् ” यदा द्वौ अथवा द्वाभ्याम् अधिकाः जनाः मिलित्वा, वृत्ताकारे उपविश्य मौनम् आचरन्ति तदा तत्र एकस्याः दिव्यशक्त्याः संचलनं भवति। अतः यदा वयम् उपविश्य एवं दिव्यशक्तिं प्रबोधयित्वा तां शक्तिं ’त्वं अस्मासु प्रवह्य अस्मत् कार्यं कारय’ इति प्रार्थयित्वा, तस्यां शक्त्यां सम्पूर्णतया शरणागतिं कुर्मः तदा सर्वाणि कार्याणि सम्यक् प्रचलिष्यन्ति” इति।
सः अग्रे अवदत् “वाल्डार्फ़् शिक्षणपद्धत्यां न केवलं बालानाम् आध्यात्मप्रगत्यां अवधानं दीयते अपि तु शिक्षकाणाम् अध्यात्मप्रगत्याम् अवधानम् भवति” इति।
एतादृशानां उन्नतविचाराणां कारणात् एषः वाल्डार्फ़् शिक्षणपद्धतिः अतीव विशिष्टा वर्तते।

For the English version of this article click this link https://www.tattvam.org/silent-time-in-a-waldorf-school/

WhatsApp
+918660795789