A Centre for Sanskrit and Spirituality

मम जननानन्तरम् मम पितरौ अस्माकम् गृहस्य पुरोहितम् उक्त्वा मम जन्मकुण्डलिं कारितवन्तौ। अस्माकं कुलपुरोहितः श्री दोरैस्वामिवर्यः संस्कृतभाषायां निपुणः, ज्योतिष्यशास्त्रे पारङ्गतः, ततोऽप्यधिकम् शुद्धहृदयी च आसीत्। सः मम जन्मसमयस्य आधारेण मम कुण्डलिं लिखित्वा अवदत् ” एषा बालिका निश्चयेन शिक्षिका भविष्यति। सा अग्रे किमपि वा पठतु, सा शिक्षणक्षेत्रम् एव प्रविशति। यदि सा वैद्यकीयम् पठिष्यति तर्हि सा वैद्यकीयविद्यालये शिक्षिका एव भविष्यति न तु वैद्या भविष्यति” इति। मम वर्धनसमये अहं दृष्टवती मां परितः सर्वे तंत्रज्ञानम् पठित्वा अभियन्तारः भूत्वा अतीव सुखकरं जीवनम् यापयन्तः सन्ति इति। अतः अहं चिन्तितवती अहमपि अभियन्ता भवामि चेत् अहमपि अतीव सुखमयम् जीवनम् यापयितुं शक्नोमि इति। अतः अहम् तदेव पठितवती। मम माता तदा तदा दोरैस्वामी महोदयस्य वचनानि स्मारयति स्म । तदा तु मम महान् कोपः आगच्छति स्म। अहमेवं वदामि स्म “शिक्षिका भवामि चेत् अहं मूर्खा इत्यर्थः भवति। ये उत्तमेषु कार्यालयेषु कार्यं न प्राप्नुवन्ति ते एव शिक्षकाः भविष्यन्ति। शिक्षणकार्यम् बहु नीरसम् अस्ति” इत्यादि। भाग्यवशाद्वा दुर्भाग्यवशाद्वा अहम् बहुराष्ट्रीयकार्यालयद्वये कार्यम् प्राप्तवती। अध्ययनं समाप्य अति सन्तोषेण स्वाम् एकस्मिन् कार्यालये योजितवती। परन्तु मह्यम् कार्यालस्य परिसरः किञ्चिदपि न अरोचत। यावत् शीघ्रम् शक्यते तावत् शीघ्रम् इतः पलायितव्यम् इत् अभासत। एकवर्षानन्तरम् कार्यम् त्यक्तवती। भाग्यवशात् शीघ्रम् मम विवाहः अभवत्। तदनन्तरम् अहं चेन्नै नगरम् आगतवती। बहुराष्ट्रीयकार्यालये तु कार्यं मास्तु इति मम निश्चितिः आसीत्। अतः अहं विभिन्नक्षेत्रेषु यथा हस्तकलाव्यापारक्षेत्रे, तन्जावुर्-चित्ररचना-पाठनक्षेत्रे च कार्यम् अकुर्वम्। परन्तु तत्र मह्यम् आनन्दः वा यशः वा न लब्धः। एतन्मध्ये तूष्णीम् तथा एव संस्कृतम् पाठयितुम् आरब्धवती। संस्कृतशिक्षिका भवितव्या इति मम उद्देशः नासीत्। यदा पाठयन्ती आसम् तदाऽहम् अचिन्तयम् यत् ’किमर्थम् मया संस्कृते एम्.ए न करणीयम्?’ इति। सर्वदा अहं संस्कृतभाषाप्रिया आसम् अतः संस्कृतपठनम् अनुवर्तितवती। एम्.ए पठनम् अहम् बहु इष्टवती। तत्राऽपि संस्कृतकाव्यानां पठनम् यथा किरातार्जुनीयस्य, अभिज्ञानशाकुन्तलस्य इत्यादीनाम् आस्वादः अतीव मनोहरः आसीत्। उत्तमान् अङ्कान् प्राप्य एम्.ए पदवीम् प्राप्तवती।
एकस्मिन् भानुवासरे प्रातः वायुविहारं समाप्य गृहम् आगत्य वार्तापत्रिकाम् यदा उद्घाटितवती तदा एकं विज्ञापनं माम् आकर्षत्। एकस्मिन् ’वाल्डार्फ़्’ विद्यालये शिक्षिकायाः कार्यम् वर्तते इति आसीत् विज्ञापने। एतस्य विज्ञापनस्य दर्शनात् पूर्वम् अहं ’वाल्डार्फ़्’ शिक्षणविषये पठित्वा तस्मिन् मम आसक्तिः अपि आगता आसीत्। अतः अहं विद्यालयं प्रति दूरवाणीं कृतवती। विद्यालयस्य मुख्यस्थाः मां विद्यालयम् आगन्तुम् उक्तवन्तः। यदा अहं विद्यालयम् प्राविशम् तदा मम महान् सन्तोषः अभवत्। मम मनसि शान्तिः आनन्दः च उद्गतः। अन्तः गत्वा विद्यालयस्य मुख्यस्थाभ्यां सह अवदम्। तौ शालायाः विषये उक्तवन्तौ यतः एषा शाला अन्यशालायाः भिन्ना वर्तते। मह्यं शाला अरोचत शालामुख्यस्ताः माम् इष्टवन्तः। अहं तां शालां ’वाल्डार्फ़्-शिक्षिका’रूपेण एव प्रविष्टवती। एतस्यां शालायां संस्कृतम् इति एकः विषयः भविष्यति इति मम कल्पनायां नासीत्। परन्तु आश्चर्यम्! अत्र संस्कृतम् एकः प्रधानविषयः। शालामुख्यस्थाः अपि संस्कृतशिक्षिकायाः अन्वेषणं कुर्वन्तः आसन्। अतः ते अपि तुष्टाः अहमपि तुष्टा। शालायाः नाम ’अक्षर् सेन्टर् आफ़् एडुकेशन्’। अस्मिन् विद्यालये शिक्षिकारूपेण गमनं मम जीवनस्य उत्तमेषु निर्णयेषु एकः। एषः विद्यालयः मह्यम् पाठनकलां इतोऽपि बहु अमूल्यविषयान् च पाठितवान् अस्ति। सर्वं दैवसंकल्पेन एव अभवत् इति मम भावना।

सर्वम् दैवनिश्चितम् एव। अहं ज्योतिषाणां समीपे न गच्छामि। मह्यं देवे अधिकः विश्वासः अस्ति। देवः मार्गं दर्शयति इति मम विश्वासः। किन्तु भाति यत् एकैकवारं देवः कालज्ञरूपेण आगत्य मार्गदर्शनं करोति इति। मम जननस्य समनन्तरम् एव देवः मह्यं मार्गम् अदर्शयत्। परन्तु अहं तस्य वचनम् न श्रुतवती। अतः मम जीवनस्य कतिचन अमूल्यानि वर्षाणि व्यर्थानि अभवन्। अथवा सर्वप्रयत्नानन्तरम् शिक्षणक्षेत्रमागता इति कारणात् शिक्षणस्य रुचिः अधिका अभवत् इति मन्ये। मुख्यतया एतस्य अनुभवस्य कारणात् अहं मम अन्तरात्मनः वचनश्रवणेन एव आनन्दः प्राप्यते न तु बाह्यप्रपञ्चस्य सहस्राभिप्रायाणां श्रवणेन इति ज्ञातवती।

For English version of this article check this link https://www.tattvam.org/listen-to-your-inner-voice/