अक्षर् विद्यालये एतत् मम प्रथमं क्रिस्मस् उत्सवस्य आचरणम् आसीत्। मया निश्चयेन वक्तव्यम् यत् एषः अनुभवः अद्भुतः आसीत्। तस्य दिनस्य ’ड्रेस् कोड्’ असीत् रक्तवर्णं वस्त्रम् एव धरणीयम् इति। अहं रक्तवर्णं वस्त्रं धृत्वा विद्यालये ८:५० वादने आसम्। अतीव सुन्दराः बालाः रक्तवर्णं वस्त्रं धृत्वा आगतवन्तः। मत्कृते सूचना दत्ता आसीत् यत् मया ’पुत्तलिकागृहे’ (बालानां क्रीडा स्थलं तत्) बालाः संद्रष्टव्याः इति। तैः बालैः सह समययापनम् अतीव सन्तोषदायकम् आसीत्। एकघण्टायाः अनन्तरम् अहं बालान् भूतलस्तरं नीतवती। तत्रत्य अतीव मनोहरां व्यवस्थां दृष्ट्वा अहं विस्मिता अभवम्।Labyrinth walk
तत्र एकं बृहत् गहनं (labyrinth) आसीत्। गहनं कृत्रिमैः तृणैः कृतम् आसीत् परन्तु नैजम् इव दृश्यते स्म। सर्वाणि वातायनानि पिहितानि आसन्, प्रकोष्ठे अन्धकारः आसीत् च। परन्तु तस्मिन् प्रकोष्ठे विविधवर्णीयाः सुन्दराः दीपाः, सिक्थवर्तिकाः च ज्वालिताः आसन्। सः प्रकोष्ठः दिव्यशक्त्या आवृत्तः आसीत्।
बालेभ्यः सूचना दत्ता आसीत् यत् तैः सम्पूर्णं मौनं पालनीयम् इति। अनन्तरम् एकैकं बालम् आहूय तस्य हस्ते एकः शुक्तिः दीयते स्म। बालः शुक्तिं स्वीकृत्य मन्दं गहने चलित्वा तं शुक्तिं गहनस्य मध्यभागे स्थापयति स्म। तदनन्तरं बालः मन्दं गहनात् बहिः आगत्य स्वस्थले उपविशति स्म। यदा बालाः एतां प्रक्रियां कुर्वन्तः आसन् तदा अहम् उपविश्य चिन्तयन्ती आसम् यत् ’अस्य गहनचलनस्य महत्त्वं किं स्यात्?’ किमर्थं आस्ट्रिया देशस्य तत्वज्ञानी, वाल्डार्फ़् शिक्षणपद्धतेः संस्थापकः रुडाल्फ़् स्टीनर् महोदयः एतं पद्धतिम् अत्र योजितवान्? एषा गहने चलनस्य क्रिया बालैः न केवलं क्रिस्मस् पर्वणि क्रियते अपि तु प्रतिदिनं पाठस्य आरम्भात् पूर्वं क्रियते। क्रिस्मस् दिने गहनस्य गात्रं बहु बृहत् भवति, प्रक्रिया अपि विस्तृता भवति।
अहम् अस्मिन् विषये एव चिन्तयन्ती आसम्, बालाः सर्वे गहनचलनक्रियां समापितवन्तः। इदानीं शिक्षिकाणाम् अवसरः आगतः। अतः अहं मम शुक्तिं स्वीकृत्य तस्मिन् गहने मन्दं चलितुम् आरब्धवती। एषः अनुभवः अत्यद्भुतः आसीत्। अहं गहनचलनस्य महत्त्वं ज्ञातवती। गहनचलनसमये अहं सम्पूर्णप्रज्ञावस्थायाम् आसम् । अहं मम एकैकस्य पदस्य अपि अनुभवं कृतवती। अहं भूतले मम पादयोः स्पर्शस्य अनुभं संपूर्णतया कृतवती। अहं मम चलनस्य मम अस्तित्त्वस्य अनुभवं सम्पूर्णतया कृतवती। अहं पुस्तकेषु पठितवती आसम् यत् यदि वयं चलनं, खादनं, पानम् इत्यादि सम्पूर्णया प्रज्ञया कुर्मः तर्हि तदेव एकं महत् ध्यानम् भवति इति। एकस्मिन् पुस्तके पठितवती आसम् यत् ’तिच् न्हाट् हान्’वर्यः सम्पूर्णया प्रज्ञया चलति, सः तस्य एकैकं पदम् अपि अनुभवति इति। यदा अहं तत् पुस्तकं पठन्ती आसम् तदा अहं न ज्ञातवती संपूर्णया प्रज्ञया चलनस्य अनुभवः कथं भवति इति। परन्तु अस्मिन् गहनचलने अहं तस्य अनुभवं कृतवती।
तत् क्षणे अहं ज्ञातवती यत् ’रुडाल्फ़् स्टीनर्’ महोदयः अस्माकं प्रज्ञां जागरयितुम् गहनचलनस्य पद्धतिं ’वाल्डार्फ़्’ शिक्षणपद्धत्यां योजितवान् अस्ति इति। मम अनुभवात् मया अन्विष्टम् उत्तरम् एतत्। ये ’स्टीनर्’वर्यस्य उपदेशान् बहु अधीतवन्तः भवन्ति ते अस्मिन् विषये बहु जानीयुः।

WhatsApp
+918660795789